HOME PAGE

यून: उपरि स्वामीविवेकानन्दस्य अवदानम्

Author: नित्यगोपाल पात्रा

Issue: Jan-Feb 2026

स्वामी विवेकानन्द: एकः महान् सन्यासी आसीत्। 1863 तमे वर्षे जनवरीमासे 12 दिनाङ्के कलिकातानगरे तस्य जन्म अभवत् । तस्य वास्तविकं नाम आसीत् नरेन्द्रनाथदत्त इति। तस्य गुरु: आसीत् श्रीरामकृष्णपरमहंसदेव इति। बाल्यादेव सः अतीव मेधावी आसीत्। स्वामीविवेकानन्दः भारतवर्षस्य एकः नक्षत्रस्वरूपः अस्ति। सः स्वस्य ज्ञानेन, तेजसा, देशभक्त्या च सम्पूर्णं विश्वं मोहितवान्। सः महान् पुरुष: आसीत् इत्यत्र शंका एव नास्ति। आधुनिकभारतस्य यूनां कृते भारतस्य प्राचीनज्ञानं दर्शनं च स प्रेषितवान्। बाल्यकालात् एव सः केवलं मेधावी नासीत्, अपि तु आध्यात्मिकचेतनापूर्णः चासीत्। 'यावत्पर्यन्तं लक्ष्यं न सिध्यति तावत्पर्यन्तं न स्थगयतु' इति सन्देशं दत्तवान् सः। सः सार्वभौमिकभ्रातृत्वस्य, राष्ट्रियचेतनायाः जागरणस्य च आह्वानं कृतवान्। एतेन भारतीययूनां मध्ये आत्मविश्वासः, राष्ट्रनिर्माणस्य भावना च जागृता। आधुनिकभारतस्य निर्माता सः अस्ति इति सर्वैरपि उच्यते। सः युवकान् स्वस्य आन्तरिकशक्तिं ज्ञात्वा आत्मनिर्भरतां प्राप्तुं प्रेरितवान्। सः भयं विना कार्यं कर्तुम् उत्साहं दत्तवान्। सः न केवलं धार्मिकशास्त्रविषये, अपि तु क्रीडया शारीरिकबलस्य विषये अपि ज्ञानं प्रदत्तवान्। किमपि कार्यं कर्तुं स्वस्थं शरीरम् आवश्यकम् अस्ति। बलमेव अस्माकं जीवनम् इति तेषां मतं वर्तते। सः युवकान् दृढचरित्रस्य, अनुशासनस्य, अखण्डतायाः च महत्त्वं शिक्षयति स्म। येन ते समाजस्य आदर्शभूताः भवितुम् अर्हन्ति। परस्य कृते कर्म कर्तव्यम् इति वचनम् अनुसृत्य सः निर्धनानां सेवा कर्तुं प्रेरितवान्। सा हि ईश्वरसेवा इति कथ्यते। रामकृष्णमिशन्- नामकस्य संस्थायाः स्थापनां कृतवान्। इयं संस्था समाजसेवाम् अतीव सुष्ठुतया निर्वहति। सः यूनां मध्ये राष्ट्रगौरवं आत्मसम्मानं च प्रवर्तितवान्। येन ते अस्माकं राष्ट्रस्य शिल्पकारत्वेन उद्भवितुं समर्थाः अभवन्। सः सर्वधर्मसमन्वयस्य, मनुष्येषु समानतायाः, भ्रातृत्वस्य च सन्देशं दत्तवान्। सः महान् दार्शनिक: आसीत् इत्यत्र विप्रतिपत्ति: एव नास्ति। एवमेव प्रकारेण भारतीययूनां कृते ते उत्साहं, प्रेरणां च दत्तवन्तः। अतः अस्माकं सर्वेषां कृते सः स्मरणीयः पुरुषः। स्वामीविवेकानन्दः न केवलं युवकान् शिक्षाविषये ज्ञानं प्रदत्तवान्। अपि तु सर्वाङ्गीणाभिवृद्धये मार्गमपि उक्तवान्। तेन तस्य प्रासंगिकता अस्माकं सर्वेषां भारतीयानां कृते वर्तत एव।।