HOME PAGE

अहिल्याबाई होलकरः - एकं प्रेरणादायकं जीवनचरितम्‌

Author: डॉ . महाबलराव एम. जी

Issue: MAY JUNE 2026

भारतीय इतिहासे अनेकानि महनीयानि नारीरत्नानि दृश्यन्ते ये राष्ट्रस्य सांस्कृतिकराजनीतिकजीवनस्य उन्नतिं कृतवन्तः। तेषु अहिल्याबाई होलकरः नाम महती नारी विशेषतया स्मरणीया अस्ति।

सा केवलं मालवप्रदेशस्य सुशासिका एव नासीत्‌, अपि तु धर्मनिष्ठा, दयालुता, न्यायप्रियता, लोकसेवा च एतेः गुणैः युक्ता आदर्शराणी आसीत्‌। तस्याः जीवनं त्यागस्य, धैर्यस्य, कर्तव्यनिष्ठायाः च उत्तमं उदाहरणम्‌ अस्ति। भारतीय इतिहासे तस्याः शासनकालः स्वर्णयुगम्‌ इव मन्यते।

जन्म तथा बाल्यकालः

अहिल्याबाई १७२५ तमे वर्षे महाराष्ट्रप्रदेशस्य अहमदनगरजनपदे स्थिते चौंडी नाम ग्रामे जन्म लब्धवती। तस्याः पितुः नाम माणकोजी शिन्दे आसीत्‌, यः ग्रामस्य प्रतिष्ठितः पुरुषः आसीत्‌।

सः कन्यां शिक्षयितुम्‌ अत्यन्तं उत्सुकः आसीत्‌। तस्मात्‌ अहिल्याबाई बाल्ये एव धर्मशास्त्राणि, रामायणं, महाभारतं च पठितवती। बाल्यकालात्‌ एव सा विनयी, धार्मिकस्वभावा, करुणामयी च आसीत्‌।

एकदा मराठा साम्राज्यस्य प्रसिद्धः सेनानायकः मल्हाररावः होलकरः ग्रामे आगतः। सः मन्दिरे प्रार्थनां कुर्वन्तीं अहिल्याबाई दृष्ट्वा तथा तस्याः सद्गुणैः प्रभावितः अभवत्‌। अतः तेन स्वपुत्रस्य खण्डेरावः होलकरस्य विवाहार्थं ताम्‌ वरणीयामिति निश्चितम्‌। ततः अहिल्याबाई इन्दौरस्य होलकरकुले वधूरूपेण आगता।

बाल्येऽपि सा शीलगुणैः समेता विनयेन युक्ता सदया च नारी। जनान्‌ समस्तान्‌ स्वगुणैः प्रसाद्य कीर्ति स्वकीयं विवर्धयत्‌ नित्यम्‌॥

विवाहोत्तरजीवनम्‌

विवाहानन्तरं अहिल्याबाई स्वपितृगृहं त्यक्त्वा इन्दौरनगरे निवासं कृतवती। तस्याः पतिः खण्डेरावः युद्धप्रियः आसीत्‌। अहिल्याबाई तस्य सहधर्मचारिणी रूपेण सदैव धर्ममार्गे प्रेरयन्ती आसीत्‌। सा राज्यकार्यानि, प्रशासनिकव्यवस्थां, सैन्यव्यवस्थां च अवलोकयन्ती अनुभवम्‌ अर्जयत्‌।

किन्तु भाग्यस्य क्रूरता शीघ्रमेव प्रकटिता। १७५४ तमे वर्षे कुम्भेरयुद्धे खण्डेरावः वीरगतिं प्राप्तवान्‌। पतिवियोगेन अहिल्याबाई अत्यन्तं दुःखिता अभवत्‌। प्राचीनपरम्परानुसारं सा सतीभावेन अग्नौ प्रवेष्टुम्‌ इच्छति स्म। परन्तु तस्याः श्वशुरः मल्हाररावः तां निरोद्धुं सफलः अभवत्‌। सः तां जीवितुं, राज्यसेवां कर्तुं च प्रेरितवान्‌।

सुशासनम्‌

मल्हाररावस्य निधनानन्तरं १७६७ तमे वर्षे अहिल्याबाई मालवराज्यस्य शासनभारं स्वीकृतवती। सा महेश्वरनगरं राजधानीरूपेण स्थापयामास। तस्याः शासनकालः न्यायप्रियतया, सुशासनव्यवस्थया, लोककल्याणकार्यैः च प्रसिद्धः अभवत्‌।

अहिल्याबाई प्रतिदिनं प्रातःकाले सभां कुर्वन्ती प्रजाजनानां समस्याः श्रुत्वा न्यायपूर्ण निर्णयं ददाति स्म। तस्याः शासनपद्धतिः अत्यन्तं सरला आसीत्‌। सा भ्रष्टाचारं कदापि न सहते स्म। प्रजाजनाः तां मातृरूपेण पूजयन्ति स्म।

न न्यायमार्गात्‌ चलिता कदाचित्‌ न प्रजाहितात्‌ परिवर्तिता सा। प्रजासुखे यः रमते स राजा इत्यस्य सिद्धं ददृशुः जनास्ते॥

धार्मिकता तथा लोकसेवा

अहिल्याबाई अत्यन्तं धार्मिकस्वभावा आसीत्‌। सा भारतस्य विविधेषु तीर्थस्थानेषु देवालयानां, घाटानां, धर्मशालानां च निर्माणं कृतवती। वाराणसी, प्रयाग, गया, सोमनाथ, द्वारका, बद्रीनाथ, केदारनाथादिषु स्थलेषु तस्याः दानकार्याणि अद्यापि दृश्यन्ते।

प्रशासनिकदक्षता

अहिल्याबाई प्रशासनक्षेत्रे अपि अद्वितीया आसीत्‌। सा कृषकाणां हिताय नीतयः प्रवर्तयन्ती कृषकाणां करभारं न्यूनं कृत्वा कृषिविकासं प्रोत्साहितवती। व्यापारस्य उन्नत्यै मार्गान्‌, सेतून्‌, आपणान्‌ च संस्थापयामास।

तस्याः राज्ये शान्तिः, समृद्धिः, सुरक्षा च विद्यमाना आसीत्‌। अपराधिनः कठोरदण्डं प्राप्नुवन्ति स्म, परन्तु निर्धनानां सदैव संरक्षणं भवति स्म। अतः प्रजाजनाः सुखेन जीवनं यापयन्ति स्म।

व्यक्तित्वम्‌

अहिल्याबाई सरलजीवनं यापयन्ती राणी आसीत्‌। यद्यपि सा महाराणी आसीत्‌, तथापि सा विलासितां न स्वीकरोति स्म। सा साधारणवस्त्राणि धारयन्ती, नियमपूर्वकं पूजां कुर्वन्ती, प्रजाजनानां दुःखेषु सहभागिनी भवति स्म।

तस्याः व्यक्तित्वे धैर्यं, करुणा, धर्मनिष्ठा, न्यायप्रियता च समन्वितानि आसन्‌। अतः इतिहासकाराः ताम्‌ “आदर्शराणी” इति संबोधयन्ति।

अन्तिमकालः

दीर्घकालं राज्यं सञ्चाल्य अहिल्याबाई १७९५ तमे वर्षे देहत्यागं कृतवती। तस्याः निधनानन्तरम्‌ अपि तस्याः स्मृतिः प्रजाजनानां हृदयेषु जीवति। तस्याः निर्माणानि, दानकार्याणि, सुशासनं च ताम्‌ अमरां कुर्वन्ति।

अहिल्याबाई होलकरः भारतीय इतिहासे आदर्शराणी रूपेण सदैव स्मरणीया अस्ति। तस्याः जीवनं दर्शयति यत्‌ नारी अपि धैर्येण, बुद्ध्या, कर्तव्यनिष्ठया च राष्ट्रस्य उन्नतिं कर्तुं समर्था भवति।

तस्याः शासनकालः, त्यागः, लोकसेवा च एतत्‌ सर्वं भारतीयसंस्कृतेः अमूल्यं उदाहरणम्‌ अस्ति।

अतः अहिल्याबाई होलकरः केवलं मालवप्रदेशस्य राणी नासीत्‌, अपि तु सम्पूर्णभारतराष्ट्रस्य गौरवमयी नारीरत्नम्‌ आसीत्‌। तस्याः जीवनकथा अद्यापि समाजाय प्रेरणास्रोतः अस्ति, यः विशेषतः नारीशक्तेः महत्त्वं प्रदर्शयति।


This article presents Ahilyabai Holkar as one of the most inspiring queens in Indian history, remembered as an ideal ruler known for her wisdom, compassion, justice, devotion, and public service. Born in 1725 in Chondi village of Maharashtra, she was raised with strong moral and religious values, and after her marriage into the Holkar family of Indore, she gradually gained experience in administration and state affairs. Though her life was marked by deep personal tragedies, including the death of her husband, she showed remarkable courage and later took charge of the Malwa kingdom in 1767. Her rule is often regarded as a golden age because of her fair governance, concern for her people, support for farmers and trade, and her efforts to maintain peace and prosperity. Deeply religious and charitable, she also built and restored many temples, ghats, dharmashalas, and public facilities across India, including the famous Kashi Vishwanath temple. Living a simple life despite being a queen, Ahilyabai became a timeless symbol of women’s strength, duty, and leadership, and her legacy continues to inspire Indian society even today.

],